Sukta 1.91
यः सोम सख्ये तव रारणद्देव मर्त्यः । तं दक्षः सचते कविः ॥
यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्य॑: । तं दक्ष॑: सचते क॒विः ॥
yáḥ sóma sakhyé táva rāráṇad deva mártyaḥ | táṃ dákṣaḥ sacate kavíḥ ||
O Soma, the mortal who takes delight in thy friendship, him the discerning Power (dakṣa), the seer-wisdom (kaví), accompanies and upholds.
यः । सो॒म॒ । स॒ख्ये । तव॑ । र॒रण॑त् । दे॒व॒ । मर्त्यः॑ । तम् । दक्षः॑ । स॒च॒ते॒ । क॒विः ॥यः । सोम । सख्ये । तव । ररणत् । देव । मर्त्यः । तम् । दक्षः । सचते । कविः ॥yaḥ | soma | sakhye | tava | raraṇat | deva | martyaḥ | tam | dakṣaḥ | sacate | kavi ḥ