Sukta 1.91
सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । सुमृळीको न आ विश ॥
सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विद॑: । सु॒मृ॒ळी॒को न॒ आ वि॑श ॥
sóma gī́rbhis tvā vayáṃ vardháyāmo vaco-vídaḥ | su-mṛḷī́ko na ā́ viśa ||
O Soma, with our inspired utterances we increase thee, we who know the word. Enter into us as one full of a happy gentleness and healing grace.
सोम॑ । गीः॒ऽभिः । त्वा॒ । व॒यम् । व॒र्धया॑मः । व॒चः॒ऽविदः॑ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥सोम । गीःभिः । त्वा । वयम् । वर्धयामः । वचःविदः । सुमृळीकः । नः । आ । विश ॥soma | gīḥ-bhiḥ | tvā | vayam | vardhayāmaḥ | vacaḥ-vidaḥ | su-mṛḷīkaḥ | naḥ | ā | viśa