Sukta 1.9
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् । विश्वायुर्धेह्यक्षितम् ॥
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् । वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
saṃ gómad indra vā́javad asmè pṛthú śrávo bṛhát | viśvā́yur dhehy ákṣitam ||
O Indra, gather into us the luminous riches (the Rays of true knowledge) and the plenitude of force; place in us the wide and vast fame of the Truth, and establish an unperishing all-life in our being.
सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् । वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥सम् । गोमत् । इन्द्र । वाजवत् । अस्मे इति । पृथु । श्रवः । बृहत् । विश्वआयुः । धेहि । अक्षितम् ॥sam | go--mat | indra | vāja-vat | asme iti | pṛthu | śravaḥ | bṛhat | viśva-āyuḥ | dhehi | akṣitam