Sukta 1.9
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् । इन्द्र ता रथिनीरिषः ॥
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् । इन्द्र॒ ता र॒थिनी॒रिष॑: ॥
asmé dhéhi śrávo bṛhád-dyúmnaṃ sahasra-sā́tamamam | índra tā́ rathinī́r íṣaḥ ||
In us, O Indra, establish the vast fame and the luminous plenitude that wins a thousandfold; and set in motion for us those impulsions of delight that come yoked like chariots—swift, forceful, and victorious.
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् । इन्द्र॑ । ताः । र॒थिनिः॑ । इषः॑ ॥अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रसातमम् । इन्द्र । ताः । रथिनिः । इषः ॥iti | dhehi | śravaḥ | bṛhat | dyumnam | sahasra-sātamam | indra | tāḥ | rathiniḥ | iṣaḥ