Sukta 1.89
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑: ॥
śatám ín nu śarádo ánti devā́ yátrā naś cakrá jarásaṃ tanū́nām | putrā́so yátra pitaró bhávanti mā́ no madhyā́ rī́riṣatā́yur gántoḥ ||
May the Gods grant that a hundred autumns come near to us—where they have fashioned for us the ripening fullness of our embodied being; where the sons themselves become the fathers. Let not our life-force be harmed for us in the middle of its journey.
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् । पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् । पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः ॥śatam | it | nu | śaradaḥ | anti | devāḥ | yatra | naḥ | cakra | jarasam | tanūnām | putrāsaḥ | yatra | pitaraḥ | bhavanti | mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ