Sukta 1.89
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑: ॥
bhadráṃ kárṇebhiḥ śṛṇuyāma devā bhadráṃ paśyemā́kṣabhir yajatrāḥ | sthiráir áṅgais tuṣṭuvā́ṃsas tanū́bhir vyàśema deva-hítaṃ yád ā́yuḥ ||
May we hear what is auspicious with our ears, O gods; may we see what is auspicious with our eyes, O adorable ones. Praising with firm limbs and sound bodies, may we extend to the full the life that is set by the gods.
भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ । स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षभिः । यजत्राः । स्थिरैः । अङ्गैः । तुस्तुवांसः । तनूभिः । वि । अशेम । देवहितम् । यत् । आयुः ॥bhadram | karṇebhiḥ | śṛṇuyāma | devāḥ | bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ | sth iraiḥ | aṅgaiḥ | tustu-vāṃsaḥ | tanūbhiḥ | vi | aśema | deva-hitam | yat | āyuḥ