Sukta 1.89
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिऒ: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
áditir dyáur áditir antárikṣam áditir mātā́ sá pitā́ sá putráḥ | víśve devā́ áditiḥ páñca jánā áditir jātám áditir jánitvam ||
Aditi is the Heaven, Aditi is the mid-world; Aditi is the Mother—she is the Father, she is the Son. Aditi is all the Gods; Aditi is the fivefold peoples. Aditi is what is born, and Aditi is the very act and power of birth.
अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः । विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥अदितिः । द्यौः । अदितिः । अन्तरिक्षम् । अदितिः । माता । सः । पिता । सः । पुत्रः । विश्वे । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनित्वम् ॥aditiḥ | dyauḥ | aditiḥ | antarikṣam | aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ | viśve | devāḥ | aditiḥ | pañca | janāḥ | aditiḥ | jātam | aditiḥ | jani-tvam