Sukta 1.89
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
pṛ́ṣad-aśvā marútaḥ pṛ́śni-mātaraḥ śubhaṃ-yā́vāno vidátheṣu jágmayaḥ | agní-jihvā mánavaḥ sū́ra-cakṣaso víśve no devā́ avásā gamann ihá ||
May the Maruts with dappled steeds, born of Pṛśni, who move in beauty and come to the assemblies, arrive. May the Manavas with tongues of fire and sun-bright vision—may all the gods—come here to us with their help.
पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः । अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥पृषत्अश्वाः । मरुतः । पृश्निमातरः । शुभम्यावानः । विदथेषु । जग्मयः । अग्निजिह्वाः । मनवः । सूरचक्षसः । विश्वे । नः । देवाः । अवसा । आ । गमन् । इह ॥pṛṣat-aśvāḥ | marutaḥ | pṛśni-mātaraḥ | śubham-yāvānaḥ | vidatheṣu | jagmayaḥ | agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ | viśve | naḥ | devāḥ | avasā | ā | gaman | iha