Sukta 1.89
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
svastí na índro vṛ́ddha-śravāḥ svastí naḥ pūṣā́ viśvá-vedāḥ | svastí nas tārkṣyó áriṣṭa-nemiḥ svastí no bṛ́haspátir dadhātu ||
May Indra of vast hearing bring us well-being; may Pūṣan the all-knowing bring us well-being. May Tārkṣya of unbroken wheel bring us well-being; may Bṛhaspati establish well-being in us.
स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः । स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥स्वस्ति । नः । इन्द्रः । वृद्धश्रवाः । स्वस्ति । नः । पूषा । विश्ववेदाः । स्वस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥svasti | naḥ | indraḥ | vṛddha-śravāḥ | svasti | naḥ | pūṣā | viśva-vedāḥ | svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ | svasti | naḥ | bṛhaspatiḥ | dadhātu