Sukta 1.89
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
tám ī́śānaṃ jágatas tasthúṣas pátiṃ dhiyáṃ-jinvám aváse hūmahe vayám | pūṣā́ no yáthā véda-sām ásad vṛdhé rakṣitā́ pāyúr ádabdhaḥ svastáye ||
Him, the sovereign of all that moves and stands, the lord, who quickens the vision-thought, we call for help. May Pūṣan be for us—so that we may increase—an awakener of right knowledge, a protector and guardian, unfailing, for our well-being.
तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् । पू॒षा । नः॒ । यथा॑ । वेद॑सम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्जिन्वम् । अवसे । हूमहे । वयम् । पूषा । नः । यथा । वेदसम् । असत् । वृधे । रक्षिता । पायुः । अदब्धः । स्वस्तये ॥tam | īśānam | jagataḥ | tasthuṣaḥ | patim | dhiyam-jinvam | avase | hūmahe | vayam | pūṣā | naḥ | yathā | vedasam | asat | vṛdhe | rakṣitā | pāyuḥ | adabdhaḥ | svastaye