Sukta 1.89
देवानां भद्रा सुमतिॠजूयतां देवानां रातिरभि नो नि वर्तताम् । देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
दे॒वानां॑ भ॒द्रा सु॑म॒तिॠ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒: प्र ति॑रन्तु जी॒वसे॑ ॥
devā́nāṃ bhadrā́ sumatír ṛjūyatā́ṃ devā́nāṃ rātír abhí no ní vartatām | devā́nāṃ sakhyám úpa sedimā vayáṃ devā́ na ā́yuḥ prá tirantu jīváse ||
May the gods’ benevolent thought set us on the straight-going path; may the gods’ gift turn toward us and settle in us. We have drawn near to the gods’ friendship; may the gods carry our life-force forward for living—beyond all diminishing.
दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् । दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥देवानाम् । भद्रा । सुमतिः । ऋजुयताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् । देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः । प्र । तिरन्तु । जीवसे ॥devānām | bhadrā | su-matiḥ | ṛju-yatām | devānām | rātiḥ | abhi | naḥ | ni | vartatām | devānām | sakhyam | upa | sedima | vayam | devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase