Sukta 1.89
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
ā́ no bhadrā́ḥ krátavo yantu viśvátó ’dábhāso áparītāsa udbhídaḥ | devā́ no yáthā sádham íd vṛdhé ásann áprāyúvo rakṣitā́ro divédive ||
Let noble powers of will come to us from every side—unbetrayable, unassailable, breaking open what is closed. May the gods be for us always for our increase, day by day, as protectors who do not fail our life-force.
आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ । दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरिइतासः । उत्भिदः । देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्रआयुवः । रक्षितारः । दिवेदिवे ॥ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ | devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive--dive