Sukta 1.88
एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः । पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः । पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
etát tyán ná yójanaṃ aceti sasvár ha yán maruto gótamo vaḥ | páśyan híraṇyacakrān áyodaṃṣṭrān vidhā́vato varā́hūn ||
This indeed is that unequalled yoking that has become manifest, O Maruts, when Gotama beheld you—gold-wheeled, iron-tusked boars rushing forth: the irresistible powers that tear up obstruction.
ए॒तत् । त्यत् । न । योज॑नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत॑मः । वः॒ । पश्य॑न् । हिर॑ण्यऽचक्रान् । अयः॑ऽदंष्ट्रान् । वि॒ऽधाव॑तः । व॒राहू॑न् ॥एतत् । त्यत् । न । योजनम् । अचेति । सस्वः । ह । यत् । मरुतः । गोतमः । वः । पश्यन् । हिरण्यचक्रान् । अयःदंष्ट्रान् । विधावतः । वराहून् ॥etat | tyat | na | yojanam | aceti | sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ | paśyan | hiraṇya-cakrān | ayaḥ-daṃṣṭrān | vi-dhāvataḥ | varāhūn