Sukta 1.88
अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् । ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥
अहा॑नि॒ गृध्रा॒: पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् । ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
ahā́ni gṛ́dhrāḥ párī ā́ va ā́gur imā́ṃ dhíyaṃ vārkāryā́ṃ ca devī́m | bráhma kṛṇvánto gótamāso arkáir ūrdhvám nunudra utsadhíṃ píbadhyai ||
Day after day, eager as vultures, they have come all around to you—this thought, this divine shaping inspiration. The Gotamas, making the mantra-force with their hymns, have driven it upward, the wellspring-seat, for the drinking of the delight.
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् । ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥अहानि । गृध्राः । परि । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् । ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्सधिम् । पिबध्यै ॥ahāni | gṛdhrāḥ | pari | ā | vaḥ | ā | aguḥ | imām | dhiyam | vārkāryām | ca | devīm | brahma | kṛṇvantaḥ | gotamāsaḥ | arkaiḥ | ūrdhvam | nunudre | utsa-dhim | pibadhyai