Sukta 1.88
एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी । अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ । अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
eṣā́ syā́ vo maruto ’nubhartṛ́ī práti ṣṭobhati vāgháto ná vā́ṇī | ástobhayad vṛ́thā sāmánu svadhā́ṃ gábhastyoḥ ||
This is your attendant and supporter, O Maruts—this voice that answers with its chant like a worshipper’s speech. It has sounded the melodies in free flow, following your own law of power, within your grasping hands—where the energies are held and guided.
ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ । अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥एषा । स्या । वः । मरुतः । अनुभर्त्री । प्रति । स्तोभति । वाघतः । न । वाणी । अस्तोभयत् । वृथा । आसाम् । अनु । स्वधाम् । गभस्त्योः ॥eṣā | syā | vaḥ | marutaḥ | anu-bhartrī | prati | stobhati | vāghataḥ | na | vāṇī | astobhayat | vṛthā | āsām | anu | svadhām | gabhastyoḥ