Sukta 1.88
श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा । युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
śríye káṃ vo ádhi tanū́ṣu vā́śīr medhā́ vánā ná kṛṇavanta ūrdhvā́ | yuṣmábhyaṃ káṃ marutaḥ sujātās tuvidyumnā́so dhanayante ádrim ||
For splendour, upon your bodies the vibrant voice and the mind’s power make themselves rise, like woods growing upward. For you, O well-born Maruts, rich in vast luminous might, they win the stone—drawing out the hidden delight and force.
श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा । यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वना । न । कृणवन्ते । ऊर्ध्वा । युष्मभ्यम् । कम् । मरुतः । सुजाताः । तुविद्युम्नासः । धनयन्ते । अद्रिम् ॥śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ | medhā | vanā | na | kṛṇavante | ūrdhvā | yuṣmabhyam | kam | marutaḥ | su-jātāḥ | tuvi-dyumnāsaḥ | dhanayante | adrim