Sukta 1.88
तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः । रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गै॑: शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वै॑: । रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
té ’ruṇébhir váramā́ piśáṅgaiḥ śubhé káṃ yānti rathatū́rbhir áśvaiḥ | rukmó ná citráḥ svadhítīvān pavyā́ ráthasya jaṅghananta bhū́ma ||
They go to the fair goal with ruddy and tawny powers, with horses swift in the chariot’s rush. Like a bright ornament, splendid, and like one bearing the axe (power to cut), the fellies of the chariot strike the earth—pressing down what resists.
ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ । रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूःभिः । अश्वैः । रुक्मः । न । चित्रः । स्वधितिवान् । पव्या । रथस्य । जङ्घनन्त । भूम ॥te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ | śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ | rukmaḥ | na | citraḥ | svadhiti-vān | pavyā | rathasya | jaṅghananta | bhūma