Sukta 1.88
आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः । आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः । आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
ā vidyúnmadbhir marutaḥ svarkái ráthebhir yāta ṛṣṭímadbhir áśvaparṇaiḥ | ā várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ ||
Come, O Maruts, with your lightning-laden, sun-bright chariots, with spear-bearing, winged-horsed powers. Come with your most abundant impetus; like birds, fly to us—O you of beautiful workings—bringing increase of life-force.
आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः । आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥आ । विद्युन्मत्भिः । मरुतः । सुअर्कैः । रथेभिः । यात । ऋष्टिमत्भिः । अश्वपर्णैः । आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सुमायाः ॥ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | aśva-parṇaiḥ | ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ