Sukta 1.87
स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः । असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥
स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः । असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
sá hí svasṛ́t pṛ́ṣadaśvo yúvā gaṇó' yā́ īśānáḥ taviṣī́bhir ā́vṛtaḥ | ási satyá ṛṇayā́vā anédyo'syā́ dhiyáḥ prāvitā́thā vṛ́ṣā gaṇáḥ ||
For he is self-rushing, dappled-horsed, a youthful troop; moving in his own way, lordly, encompassed with powers. He is true, a payer of the debt, blameless—protector of this vision; then indeed a bull-force is that troop.
सः । हि । स्व॒ऽसृत् । पृष॑त्ऽअश्वः । युवा॑ । ग॒णः । अ॒या । ई॒शा॒नः । तवि॑षीऽभिः॑ । आऽव् ऋतः । असि॑ । स॒त्यः । ऋ॒ण॒ऽयावा॑ । अने॑द्यः । अ॒स्याः । धि॒यः । प्र॒ऽअ॒वि॒ता । अथ॑ । वृषा॑ । ग॒णः ॥सः । हि । स्वसृत् । पृषत्अश्वः । युवा । गणः । अया । ईशानः । तविषीभिः । आव् ऋतः । असि । सत्यः । ऋणयावा । अनेद्यः । अस्याः । धियः । प्रअविता । अथ । वृषा । गणः ॥saḥ | hi | sva-sṛt | pṛṣat-aśvaḥ | yuvā | gaṇaḥ | ayā | īśānaḥ | taviṣī-bhiḥ | āv ṛtaḥ | asi | satyaḥ | ṛṇa-yāvā | anedyaḥ | asyāḥ | dhiyaḥ | pra-avitā | atha | vṛṣā | gaṇaḥ