Sukta 1.87
प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे । ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥
प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
práiṣām ájmeṣu vithurévā rejate bhū́mir yā́meṣu yád dha yuñjáte śubhé | té krī́ḷayo dhúnayo bhrā́jadṛṣṭayaḥ svayáṃ mahitváṃ panayanta dhū́tayaḥ ||
In their rushings the earth quivers like one shaken, when indeed in their courses they yoke themselves for the splendid work. Those playful, thundering ones with flashing spears make their greatness felt by their own power, the impetuous movers.
प्र । ए॒षा॒म् । अज्मे॑षु । वि॒थु॒राऽइ॑व । रे॒ज॒ते॒ । भूमिः॑ । यामे॑षु । यत् । ह॒ । यु॒ञ्जते॑ । शु॒भे । ते । क्री॒ळयः॒ । धुन॑यः । भ्राज॑त्ऽऋष्टयः । स्व॒यम् । म॒हि॒ऽत्वम् । प॒न॒य॒न्त॒ । धूत॑यः ॥प्र । एषाम् । अज्मेषु । विथुराइव । रेजते । भूमिः । यामेषु । यत् । ह । युञ्जते । शुभे । ते । क्रीळयः । धुनयः । भ्राजत्ऋष्टयः । स्वयम् । महित्वम् । पनयन्त । धूतयः ॥pra | eṣām | ajmeṣu | vithurāiva | rejate | bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe | te | krīḷayaḥ | dhunayaḥ | bhrājat-ṛṣṭayaḥ | svayam | mahi-tvam | panayanta | dhūtayaḥ