Sukta 1.87
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा । श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुत॒: केन॑ चित्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
upahvaréṣu yád acídhvam yayíṃ váya iva marutaḥ kéna cit pathā́ | ścótanti kóśā úpa vo rathéṣv ā́ ghṛtám ukṣatā mádhuvarṇam árcate ||
When in the hollows you kindle your moving force, O Maruts, like birds along some path, then the vessels upon your chariots drip; you pour the ghee, honey-hued, and the chant goes up in delight.
उ॒प॒ऽह्व॒रेषु॒ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था । श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥उपह्वरेषु । यत् । अचिध्वम् । ययिम् । वयःइव । मरुतः । केन । चित् । पथा । श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुवर्णम् । अर्चते ॥upa-hvareṣu | yat | acidhvam | yayim | vayaḥ-iva | marutaḥ | kena | cit | pathā | ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā | ghṛtam | ukṣata | madhu-varṇam | arcate