Sukta 1.87
प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः । जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥
प्रत्व॑क्षस॒: प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिण॑: । जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभि॑: ॥
prátvakṣasaḥ prátavaso virapśíno'nā́natā avíthurā ṛjīṣíṇaḥ | júṣṭatamāso nṛ́tamāso añjíbhir vyā́najre ké cid usrā́ iva stṛ́bhiḥ ||
Forward in force, forward in puissance, wide-working and unbending, unshaken, straight-driving—most gladly welcomed, most manly—some of you have spread out with your radiances like bright dawns with their rays.
प्रऽत्व॑क्षसः । प्रऽत॑वसः । वि॒ऽर॒प्शिनः॑ । अना॑नताः । अवि॑थुराः । ऋ॒जी॒षिणः॑ । जुष्ट॑ऽतमासः । नृऽत॑मासः । अ॒ञ्जिऽभिः॑ । वि । आ॒न॒ज्रे॒ । के । चि॒त् । उ॒स्राइ॑व॒ स्तृभिः॑ ॥प्रत्वक्षसः । प्रतवसः । विरप्शिनः । अनानताः । अविथुराः । ऋजीषिणः । जुष्टतमासः । नृतमासः । अञ्जिभिः । वि । आनज्रे । के । चित् । उस्राइव स्तृभिः ॥pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ | anānatāḥ | avithurāḥ | ṛjīṣ iṇaḥ | juṣṭa-tamāsaḥ | nṛ-tamāsaḥ | añji-bhiḥ | vi | ānajre | ke | cit | usrāivastṛbhiḥ