Sukta 1.82
युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो । तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥
यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो । तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
yuktás te astu dákṣiṇa utá savyáḥ śatakrato | téna jāyā́m úpa priyā́ṃ mandānó yā́hy ándhaso yója nv indra te hárī ||
Let thy right and thy left be yoked, O thou of a hundred powers. With them, exulting, come to the dear companion, to the Soma-essence—now, O Indra, yoke thy two tawny steeds.
यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि॑णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तेन॑ । जा॒याम् । उप॑ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध॑सः । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥युक्तः । ते । अस्तु । दक्षिणः । उत । सव्यः । शतक्रतो इति शतक्रतो । तेन । जायाम् । उप । प्रियाम् । मन्दानः । याहि । अन्धसः । योज । नु । इन्द्र । ते । हरी इति ॥yuktaḥ | te | astu | dakṣiṇaḥ | uta | savyaḥ | śatakrato itiśata-krato | tena | jāyām | upa | priyām | mandānaḥ | yāhi | andhasaḥ | yoja | nu | indra | te | harī iti