Sukta 1.82
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्त्समु पत्न्यामदः ॥
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः । उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥
yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadhíṣe gábhastyoḥ | út tvā sutā́so rabhásā amandiṣuḥ pūṣaṇ-vā́n vajrin sám ū́m íti pátnyā amadaḥ ||
With the sacred word I yoke for thee the two long-maned tawny steeds; come forth and draw near, take thy seat in the two hands. The pressed Soma-draughts, impetuous, have made thee exult; O wielder of the thunderbolt, accompanied by Pūṣan, be united in delight with the consort.
यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः । उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊँ॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥युनज्मि । ते । ब्रह्मणा । केशिना । हरी इति । उप । प्र । याहि । दधिषे । गभस्त्योः । उत् । त्वा । सुतासः । रभसाः । अमन्दिषुः । पूषण्वान् । वज्रिन् । सम् । ऊँ इति । पत्न्या । अमदः ॥yunajmi | te | brahmaṇā | keśinā | harī iti | upa | pra | yāhi | dadhiṣe | gabhastyoḥ | ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ | pūṣaṇ-vān | vajrin | sam | oṃ iti | patnyā | amadaḥ