Sukta 1.82
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् । यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
sá ghā táṃ vṛ́ṣaṇaṃ rátham ádhi tiṣṭhāti govídam | yáḥ pā́traṃ hāri-yojánam pūrṇám indra cíkētati yója nv indra te hárī ||
He mounts that bull-strong chariot, the finder of the rays (cows). He who takes note, O Indra, of the vessel yoked to the tawny steeds and filled full—now yoke, O Indra, thy two tawny steeds.
सः । घ॒ । तम् । वृष॑णम् । रथ॑म् । अधि॑ । ति॒ष्ठा॒ति॒ । गो॒विद॑म् । यः । पात्र॑म् । हा॒रि॒ऽयो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके॑तति । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥सः । घ । तम् । वृषणम् । रथम् । अधि । तिष्ठाति । गोविदम् । यः । पात्रम् । हारियोजनम् । पूर्णम् । इन्द्र । चिकेतति । योज । नु । इन्द्र । ते । हरी इति ॥saḥ | gha | tam | vṛṣaṇam | ratham | adhi | tiṣṭhāti | govidam | yaḥ | pātram | hāri-yojanam | pūrṇam | indra | ciketati | yoja | nu | indra | te | harī iti