Sukta 1.82
सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ॥
सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
su-sandṛ́śaṃ tvā vayáṃ mághavan vandiṣīmáhi | prá nūnáṃ pūrṇávandhuraḥ stutó yāhi váśāṃ ánu yója nv indra te hárī ||
We would praise thee, O bounteous one, as fair to behold. Now, with thy chariot fully yoked, praised, come following the will that draws thee—O Indra, yoke thy two tawny steeds.
सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ । प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥सुसन्दृशम् । त्वा । वयम् । मघवन् । वन्दिषीमहि । प्र । नूनम् । पूर्णवन्धुरः । स्तुतः । याहि । वशान् । अनु । योज । नु । इन्द्र । ते । हरी इति ॥su-sandṛśam | tvā | vayam | magha-van | vandiṣīmahi | pra | nūnam | pūrṇa-vandhuraḥ | stutaḥ | yāhi | vaśān | anu | yoja | nu | indra | te | harī iti