Sukta 1.81
यो अर्यो मर्तभोजनं पराददाति दाशुषे । इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ । इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥
yo aryo marta-bhojanaṃ parādadāti dāśuṣe | indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||
He who, as a noble power, gives forth the mortal’s enjoyments to the giver—may Indra teach and guide us; distribute to us. Abundant is thy wealth: may we partake of thy bounty of fulfilment.
यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ । इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥यः । अर्यः । मर्तभोजनम् । पराददाति । दाशुषे । इन्द्रः । अस्मभ्यम् । शिक्षतु । वि । भज । भूरि । ते । वसु । भक्षीय । तव । राधसः ॥yaḥ | aryaḥ | marta-bhojanam | parādadāti | dāśuṣe | indraḥ | asmabhyam | śikṣatu | vi | bhaja | bhūri | te | vasu | bhakṣīya | tava | rādhasaḥ