Sukta 1.81
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि । न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि । न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
ā paprau pārthivaṃ rajo badbadhe rocanā divi | na tvāvān indra kaś cana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha ||
He has filled the earthly expanse; he has encompassed the luminous realms in heaven. None like thee, O Indra, has been born, nor will be born; thou hast borne and upheld all beyond measure.
आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि । न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि । न । त्वावान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ ॥ā | paprau | pārthivam | rajaḥ | badbadhe | rocanā | divi | na | tvāvān | indra | kaḥ | cana | na | jātaḥ | na | janiṣyate | ati | viśvam | vavakṣitha