Sukta 1.81
असि हि वीर सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः । असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
asi hi vīra senyo 'si bhūri parādadiḥ | asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||
Thou art indeed the hero, thou art the battle-leader; thou givest out abundantly. Thou increasest even the small; thou trainest and guidest the sacrificer who presses Soma—abundant is thy wealth of being.
असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः । असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥असि । हि । वीर । सेन्यः । असि । भूरि । पराददिः । असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥asi | hi | vīra | senyaḥ | asi | bhūri | parādadiḥ | asi | dabhrasya | cit | vṛdhaḥ | yajamānāya | śikṣasi | sunvate | bhūri | te | vasu