Sukta 1.81
यदुदीरत आजयो धृष्णवे धीयते धना । युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ । यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒: कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥
yad udīrata ājayo dhṛṣṇave dhīyate dhanā | yukṣva mada-cyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ ||
When the battles rise and the riches are set for the bold, yoke thy two bay steeds, O thou whose rapture overflows. Whom wilt thou strike, whom wilt thou establish in the wealth? Establish us, O Indra, in the wealth of being.
यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ । यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अस्मान् । इ॒न्द्र॒ । वसौ॑ । दधः ॥यत् । उत्ईरते । आजयः । धृष्णवे । धीयते । धना । युक्ष्व । मदच्युता । हरी इति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥yat | ut-īrate | ājayaḥ | dhṛṣṇave | dhīyate | dhanā | yukṣva | mada-cyutā | harī iti | kam | hanaḥ | kam | vasau | dadhaḥ | asmān | indra | vasau | dadhaḥ