Sukta 1.81
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभि॑: । तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
indro madāya vāvṛdhe śavase vṛtra-hā nṛbhiḥ | tam in mahat-sv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||
Indra grows for the rapture and for the force, the slayer of the Coverer, with the help of the heroic. Him we call in the great battles and also in the small; may he come forward to us in the plenitudes of power and protect us.
इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ । तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥इन्द्रः । मदाय । ववृधे । शवसे । वृत्रहा । नृभिः । तम् । इत् । महत्सु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥indraḥ | madāya | vavṛdhe | śavase | vṛtra-hā | nṛ-bhiḥ | tam | it | mahat-su | ājiṣu | uta | īm | arbhe | havāmahe | saḥ | vājeṣu | pra | naḥ | aviṣat