Sukta 1.80
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥
इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् । यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
índra túbhyam íd adri-vo ’nuttáṃ vajrin vī́ryam | yád dha tyáṃ māyínaṃ mṛgáṃ tám u tváṃ māyáyāvadhīr ’rcann ánu sva-rā́jyam ||
O Indra, for thee indeed, O wielder of the stone, is that unsurpassed hero-power: that thou didst slay by thy own mastery of skill the deceptive beast of illusion—shining in the train of thy self-sovereignty.
इन्द्र॑ । तुभ्य॑म् । इत् । अ॒द्रि॒ऽवः॒ । अनु॑त्तम् । व॒ज्रि॒न् । वी॒र्य॑म् । यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृ॒गम् । तम् । ऊँ॒ इति॑ । त्वम् । मा॒यया॑ । अ॒व॒धीः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इन्द्र । तुभ्यम् । इत् । अद्रिवः । अनुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । मायिनम् । मृगम् । तम् । ऊँ इति । त्वम् । मायया । अवधीः । अर्चन् । अनु । स्वराज्यम् ॥indra | tubhyam | it | adri-vaḥ | anuttam | vajrin | vīryam | yat | ha | tyam | māy inam | mṛgam | tam | oṃ iti | tvam | māyayā | avadhīḥ | arcan | anu | sva-rājyam