Sukta 1.80
वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु । महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥
वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ । म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
ví te vájrāso asthiran navatíṃ nāvyā́ḥ ánu | mahát ta indra vī́ryaṃ bāhvós te bálaṃ hitám ’rcann ánu sva-rā́jyam ||
Thy thunderbolts were set in motion, following after the ninety and nine; great, O Indra, is thy hero-force—thy strength is lodged in thy arms—shining in the wake of thy self-sovereignty.
वि । ते॒ । वज्रा॑सः । अ॒स्थि॒र॒न् । न॒व॒तिम् । ना॒व्याः॑ । अनु॑ । म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । बा॒ह्वोः । ते॒ । बल॑म् । हि॒तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥वि । ते । वज्रासः । अस्थिरन् । नवतिम् । नाव्याः । अनु । महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । ते । बलम् । हितम् । अर्चन् । अनु । स्वराज्यम् ॥vi | te | vajrāsaḥ | asthiran | navatim | nāvyāḥ | anu | mahat | te | indra | vīryam | bāhvoḥ | te | balam | hitam | arcan | anu | sva-rājyam