Sukta 1.80
इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥
इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒: सानुं॒ वज्रे॑ण हीळि॒तः । अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
índro vṛtrásya dódhataḥ sā́nuṃ vájreṇa hīḷitáḥ | abhí-kramyā́va jighnate ’páḥ sármāya codáyan ’rcann ánu sva-rā́jyam ||
Indra, urged on by the thunderbolt, smites the ridge of Vṛtra as he heaves and strives; advancing upon him he strikes him down, and he drives the waters forward for their free movement—shining in the wake of his sovereign self-rule.
इन्द्रः॑ । वृ॒त्रस्य॑ । दोध॑तः । सानु॑म् । वज्रे॑ण । ही॒ळि॒तः । अ॒भि॒ऽक्रम्य॑ । अव॑ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा॑य । चो॒दय॑न् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इन्द्रः । वृत्रस्य । दोधतः । सानुम् । वज्रेण । हीळितः । अभिक्रम्य । अव । जिघ्नते । अपः । सर्माय । चोदयन् । अर्चन् । अनु । स्वराज्यम् ॥indraḥ | vṛtrasya | dodhataḥ | sānum | vajreṇa | hīḷitaḥ | abhi-kramya | ava | ji ghnate | apaḥ | sarmāya | codayan | arcan | anu | sva-rājyam