Sukta 1.80
निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः । सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥
निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः । सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
nír indra bhū́myā ádhi vṛtráṃ jaghantha nír diváḥ | sṛjá marútvatīr áva jīvá-dhanyā imā́ apó ’rcann ánu sva-rā́jyam ||
O Indra, thou didst smite Vṛtra down and cast him out from the foundation of the earth and from the heights of heaven. Release, downward into our being, these waters that are filled with the Maruts’ force—waters rich in the wealth of life; so may they shine in us following thy sovereign mastery.
निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः । सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥निः । इन्द्र । भूम्याः । अधि । वृत्रम् । जघन्थ । निः । दिवः । सृज । मरुत्वतीः । अव । जीवधन्याः । इमाः । अपः । अर्चन् । अनु । स्वराज्यम् ॥niḥ | indra | bhūmyāḥ | adhi | vṛtram | jaghantha | niḥ | divaḥ | sṛja | marutvatīḥ | ava | jīva-dhanyāḥ | imāḥ | apaḥ | arcan | anu | sva-rājyam