Sukta 1.80
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते । इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥
प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते । इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
préhy abhī́hi dhṛ́ṣṇuhi ná te vájro ní yaṃsate | índra nṛ́mṇaṃ hí te śávo hánō vṛtráṃ jáyā apó’rcan ánu sva-rā́jyam ||
Go forth, advance, press on with daring; thy thunderbolt is not held back. O Indra, thine is the man-strength and the might: smite Vṛtra, win the waters, chanting onward into self-sovereignty.
प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः॑ । नि । यं॒स॒ते॒ । इन्द्र॑ । नृ॒म्णम् । हि । ते॒ । शवः॑ । हनः॑ । वृ॒त्रम् । जयाः॑ । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥प्र । इहि । अभि । इहि । धृष्णुहि । न । ते । वज्रः । नि । यंसते । इन्द्र । नृम्णम् । हि । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्वराज्यम् ॥pra | ihi | abhi | ihi | dhṛṣṇuhi | na | te | vajraḥ | ni | yaṃsate | indra | nṛmṇam | h i | te | śavaḥ | hanaḥ | vṛtram | jayāḥ | apaḥ | arcan | anu | sva-rājyam