Sukta 1.80
नहि नु यादधीमसीन्द्रं को वीर्या परः । तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥
न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः । तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
nahi nu yād adhīmási indraṃ ko vīryā paraḥ | tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhuḥ arcann anu sva-rājyam ||
For truly, when we set Indra above all, who is there that surpasses his hero-powers? In him the gods have gathered manly might, the discerning will, and the energies; and the singers, following his self-sovereignty, chant.
न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः । तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥नहि । नु । यात् । अधिइमसि । इन्द्रम् । कः । वीर्या । परः । तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्वराज्यम् ॥nahi | nu | yāt | adhi-imasi | indram | kaḥ | vīryā | paraḥ | tasmin | nṛmṇam | uta | kratum | devāḥ | ojāṃsi | sam | dadhuḥ | arcan | anu | sva-rājyam