Sukta 1.80
अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते । त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥
अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते । त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
abhiṣṭane te adrivo yat sthā jagac ca rejate | tvaṣṭā cit tava manyave indra vevijyate bhiyārcann anu sva-rājyam ||
When thou standest in thy seat of mastery, O Indra the wielder of the pressing-stone, the whole moving world trembles. Even Tvashṭṛ, the fashioner, quivers before thy flaming will; and the singers, following thy self-sovereignty, chant in awe.
अ॒भि॒ऽस्त॒ने । ते॒ । अ॒द्रि॒ऽवः॒ । यत् । स्थाः । जग॑त् । च॒ । रे॒ज॒ते॒ । त्वष्टा॑ । चि॒त् । तव॑ । म॒न्यवे॑ । इ॒न्द्र॒ । वे॒वि॒ज्यते॑ । भि॒या । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥अभिस्तने । ते । अद्रिवः । यत् । स्थाः । जगत् । च । रेजते । त्वष्टा । चित् । तव । मन्यवे । इन्द्र । वेविज्यते । भिया । अर्चन् । अनु । स्वराज्यम् ॥abhi-stane | te | adri-vaḥ | yat | sthāḥ | jagat | ca | rejate | tvaṣṭā | cit | tava | manyave | indra | vevijyate | bhiyā | arcan | anu | sva-rājyam