Sukta 1.80
यद्वृत्रं तव चाशनिं वज्रेण समयोधयः । अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥
यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः । अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
yád vṛtráṃ táva ca āśánim vájreṇa sam-ayódhayaḥ | áhím indra jighā́ṃsato diví te badbadhe śávo ’rcann ánu sva-rā́jyam ||
When with the thunderbolt thou didst engage in battle with Vṛtra and with the lightning-stroke, O Indra, to slay the serpent that sought to slay (the light), then in heaven thy might was made firm and bound fast—shining in the wake of thy self-sovereignty.
यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः । अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥यत् । वृत्रम् । तव । च । अशनिम् । वज्रेण । सम्अयोधयः । अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्वराज्यम् ॥yat | vṛtram | tava | ca | aśanim | vajreṇa | sam-ayodhayaḥ | ahim | indra | jighāṃsataḥ | divi | te | badbadhe | śavaḥ | arcan | anu | sva-rājyam