Sukta 1.80
न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् । अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥
न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् । अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
ná vépasā ná tanyaté́ndraṃ vṛtró ví bībhayat | abhy ènaṃ vájra āyásaḥ sahásra-bhṛṣṭir āyā́t ’rcann ánu sva-rā́jyam ||
Neither by trembling nor by thunder did Vṛtra terrify Indra. Against him came the iron thunderbolt with a thousand edges—shining in the wake of self-sovereignty.
न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् । अ॒भि । ए॒न॒म् । वज्रः॑ । आय॒सः । स॒हस्र॑ऽभृष्टिः । आ॒या॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् । अभि । एनम् । वज्रः । आयसः । सहस्रभृष्टिः । आयात । अर्चन् । अनु । स्वराज्यम् ॥na | vepasā | na | tanyatā | indram | vṛtraḥ | vi | bībhayat | abhi | enam | vajraḥ | āyasaḥ | sahasra-bhṛṣṭiḥ | āyāta | arcan | anu | sva-rājyam