Sukta 1.80
इमे चित्तव मन्यवे वेपेते भियसा मही । यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही । यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
imé cit táva mányave vépete bhiyásā mahī́ | yád indra vajrinn ójasā vṛtráṃ marútvān ávadhīr ’rcann ánu sva-rā́jyam ||
Even these (powers) tremble before thy wrath, O mighty one, in great fear, when, O Indra the thunderbearer, strong with might and with the Maruts, thou didst slay Vṛtra—shining in the wake of thy self-sovereignty.
इ॒मे । चि॒त् । तव॑ । म॒न्यवे॑ । वेपे॑ते॒ इति॑ । भि॒यसा॑ । म॒ही । यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज॑सा । वृ॒त्रम् । म॒रुत्वान् । अव॑धीः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इमे । चित् । तव । मन्यवे । वेपेते इति । भियसा । मही । यत् । इन्द्र । वज्रिन् । ओजसा । वृत्रम् । मरुत्वान् । अवधीः । अर्चन् । अनु । स्वराज्यम् ॥ime | cit | tava | manyave | vepeteiti | bhiyasā | mahī | yat | indra | vajrin | ojasā | vṛtram | marutvān | avadhīḥ | arcan | anu | sva-rājyam