Sukta 1.75
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । को ह कस्मिन्नसि श्रितः ॥
कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः । को ह॒ कस्मि॑न्नसि श्रि॒तः ॥
kás te jāmír jánānām agne kó dāśv ádhvaraḥ | kó ha kásmin asi śritáḥ ||
Who is thy kin among men, O Agni? who is the giver in the rite? who indeed art thou, and in whom art thou established?
कः । ते॒ । जा॒मिः । जना॑नाम् । अग्ने॑ । कः । दा॒शुऽअ॑ध्वरः । कः । ह॒ । कस्मि॑न् । अ॒सि॒ । श्रि॒तः ॥कः । ते । जामिः । जनानाम् । अग्ने । कः । दाशुअध्वरः । कः । ह । कस्मिन् । असि । श्रितः ॥kaḥ | te | jāmiḥ | janānām | agne | kaḥ | dāśu-adhvaraḥ | kaḥ | ha | kasmin | asi | śritaḥ