Sukta 1.75
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥
त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः । सखा॒ सखि॑भ्य॒ ईड्य॑: ॥
tváṃ jāmír jánānām agne mitró asi priyáḥ | sakhā́ sákhibhya ī́ḍyaḥ ||
Thou art the kin of men, O Agni; thou art Mitra, the beloved: a comrade, worthy of adoration by comrades.
त्वम् । जा॒मिः । जना॑नाम् । अग्ने॑ । मि॒त्रः । अ॒सि॒ । प्रि॒यः । सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । असि । प्रियः । सखा । सखिभ्यः । ईड्यः ॥tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ | sakhā | sakhi-bhyaḥ | īḍyaḥ