Sukta 1.74
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो । जना आहुः सुबर्हिषम् ॥
तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो । जना॑ आहुः सुब॒र्हिष॑म् ॥
tám ít su-hávyam aṅgiraḥ su-deváṃ sahaso yáho íti | jánā ā́huḥ su-bárhiṣam ||
Him indeed, O Angiras, men call “the well-invoked,” the “noble-shining god,” the “impulse of might,” and “he of the good sacred seat (barhis).”
तम् । इत् । सु॒ऽह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒ऽदे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति॑ । जनाः॑ । आ॒हुः॒ । सु॒ऽब॒र्हिष॑म् ॥तम् । इत् । सुहव्यम् । अङ्गिरः । सुदेवम् । सहसः । यहो इति । जनाः । आहुः । सुबर्हिषम् ॥tam | it | su-havyam | aṅgiraḥ | su-devam | sahasaḥ | yaho iti | janāḥ | āhuḥ | su-barhiṣam