Sukta 1.74
यस्य दूतो असि क्षये वेषि हव्यानि वीतये । दस्मत्कृणोष्यध्वरम् ॥
यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ । द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥
yásya dūtó asi kṣáye véṣi havyā́ni vītáye | dásmat kṛṇóṣy adhvarám ||
In whose home you are the messenger, you carry the offerings for enjoyment; from the wonderful (power) you fashion the sacrifice—making the rite effective and luminous in the dwelling of the seeker.
यस्य॑ । दू॒तः॑ । असि॑ । क्षये॑ । वेषि॑ । ह॒व्यानि॑ । वी॒तये॑ । द॒स्मत् । कृ॒णोषि॑ । अ॒ध्व॒रम् ॥यस्य । दूतः । असि । क्षये । वेषि । हव्यानि । वीतये । दस्मत् । कृणोषि । अध्वरम् ॥yasya | dūtaḥ | asi | kṣaye | veṣi | havyāni | vītaye | dasmat | kṛṇoṣi | adhvaram