Sukta 1.7
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च । उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑: ॥
índra vā́jeṣu no ’va sahásrapradhaneṣu ca | ugrá ugrā́bhir ūtíbhiḥ ||
O Indra, in the strivings for plenitude of force, and also in the battles where a thousand stakes are set, protect us—O strong One—by thy strong powers of help.
इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ । उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥इन्द्रः । वाजेषु । नः । अव । सहस्रप्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥indraḥ | vājeṣu | naḥ | ava | sahasra-pradhaneṣu | ca | ugraḥ | ugrābhiḥ | ūti-bhiḥ