Sukta 1.7
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ॥
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे । युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
índraṃ vayaṃ mahā-dháne índram árbhe havāmahe | yújaṃ vṛ́treṣu vajríṇam ||
We call Indra in the great winning of plenitude; we call Indra in the small beginnings as well—him who is the yoked ally in the battles with the obstructers, the wielder of the thunderbolt-force.
इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ । युज॑म् । वृ॒त्रेषु॑ । व॒ज्रिण॑म् ॥इन्द्रम् । वयम् । महाधने । इन्द्रम् । अर्भे । हवामहे । युजम् । वृत्रेषु । वज्रिणम् ॥indram | vayam | mahādhane | indram | arbhe | havāmahe | yujam | vṛtreṣu | vajriṇam