Sukta 1.67
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥
ajó ná kṣā́ṃ dādhā́ra pṛthivī́ṃ tastámbha dyā́ṃ mantrébhíḥ satyáiḥ
Like the Unborn, he upheld the earth; he propped the heaven by true mantras—establishing the worlds in the firmness of Truth.
अ॒जः । न । क्षाम् । दा॒धार॑ । पृ॒थि॒वीम् । त॒स्तम्भ॑ । द्याम् । मन्त्रे॑भिः । स॒त्यैः ॥अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रेभिः । सत्यैः ॥ajaḥ | na | kṣām | dādhāra | pṛthivīm | tastambha | dyām | mantrebhiḥ | satyaiḥ