Sukta 1.63
त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् । यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥
त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒: परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥
tváṃ tyā́ṃ na indra deva citrā́m íṣam ā́po ná pī́payaḥ pári-jman | yayā́ śūra práty asmábhyaṃ yáṃsi tmánam ūrjáṃ ná viśvádha kṣáradhyai ||
You, O Indra the divine, nourish for us that varied and shining delight/impulse, as waters nourish the circling world; by which, O hero, you turn toward us and make our being flow—like a universal stream of strength—pouring out on every side.
त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष॑म् । आपः॑ । न । पी॒प॒यः॒ । परि॑ऽज्मन् । यया॑ । शूर॑ । प्रति॑ । अ॒स्मभ्य॑म् । यंसि॑ । त्मन॑म् । ऊर्ज॑म् । न । वि॒श्वध॑ । क्षर॑ध्यै ॥त्वम् । त्याम् । नः । इन्द्र । देव । चित्राम् । इषम् । आपः । न । पीपयः । परिज्मन् । यया । शूर । प्रति । अस्मभ्यम् । यंसि । त्मनम् । ऊर्जम् । न । विश्वध । क्षरध्यै ॥tvam | tyām | naḥ | indra | deva | citrām | iṣam | āpaḥ | na | pīpayaḥ | pari-jman | yayā | śūra | prati | asmabhyam | yaṃsi | tmanam | ūrjam | na | viśvadha | kṣaradhyai