Sukta 1.63
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् । सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् । सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
akā́ri te indra gotámebhir bráhmāṇy óktā námasā hári-bhyām | su-péśasaṃ vā́jam ā́ bharā naḥ prātár makṣū́ dhiyā́vasur jagamyāt ||
For you, O Indra, the Gotamas have wrought and spoken words of power with reverence for your radiant steeds. Bring to us the well-formed plenitude of force; and may the rich treasure of inspired thought come swiftly at the dawn.
अका॑रि । ते॒ । इ॒न्द्र॒ । गोत॑मेभिः । ब्रह्मा॑णि । आऽउ॑क्ता । नम॑सा । हरि॑ऽभ्याम् । सु॒ऽपेश॑सम् । वाज॑म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥अकारि । ते । इन्द्र । गोतमेभिः । ब्रह्माणि । आउक्ता । नमसा । हरिभ्याम् । सुपेशसम् । वाजम् । आ । भर । नः । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥akāri | te | indra | gotamebhiḥ | brahmāṇi | āuktā | namasā | hari-bhyām | su-peśasam | vājam | ā | bhara | naḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt